ॐ संगच्छध्वम् सं वद्धवम्
सं वो मनाँसि जानताम् ।
देवा भागम् यथा पूर्वे
सञ्जानाना उपासते ॥ 1समानो मंत्र: समिति: समानी
समानं मन: सह चित्तमेषाम्
समानं मन्त्रमभि मन्त्रये व:
समानेन वो हविषा जुहोमि ॥ 2
समानी व आकूति:
समाना ह्र्दयानि व: ।
समानमस्तु वो मनो
यथा व: सुसहासति ॥ 3
॥ ॐ शांति: शांति: शांति: ॥